|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.82. अध्यायः 082
Mahabharata - Vana Parva - Chapter Topics
पुलस्त्येन भीष्मंप्रति नानातीर्थमाहात्म्यकथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
पुलस्त्य उवाच। 3-82-0x(1989)(19284)
ततो गच्छेन्महाराज धर्मतीर्थमनुत्तमम्।
[यत्र धर्मो महाभागस्तप्तवानुत्तमं तपः ॥
तेन तीर्थं कृतंपुण्यं स्वेन नाम्ना च विश्रुतम् ॥] 3-82-1(19285)
तत्रस्नात्वा नरो राजन्धर्मशील समाहितः।
आसप्तमं कुलं चैव पुनीते नात्र संशयः ॥ 3-82-2(19286)
ततो गच्छेत राजेन्द्र ज्ञानपावनमुत्तमम्।
अग्निष्टोममवाप्नोति मुनिलोकं च गच्छति ॥ 3-82-3(19287)
सौगन्धिकवनं राजंस्ततो गच्छेत मानवः।
तत्रब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥ 3-82-4(19288)
सिद्धचारणगन्धर्वाः किन्नराश्च महोरगाः।
कतद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते ॥ 3-82-5(19289)
ततश्चापि सरिचच्छ्रेष्ठा नदीनामुत्तमा नदी।
प्लक्षा देवी स्मृता राजन्पुण्या देवी सरस्वती ॥ 3-82-6(19290)
तत्राभिषेकं कुर्वीत वल्मीकान्निः सृतेजले।
अर्चयित्वा पितॄन्देवानश्वमेधफलं लभेत् ॥ 3-82-7(19291)
कवेराध्युषितं नाम तत्र तीर्थं सुदुर्लभम्।
पट्सु शम्यानिपातेषु वल्मीकादिति निश्चयः ॥ 3-82-8(19292)
कपिलानां सहस्रं च वाजिमेधं च विन्दति।
तत्र स्नात्वा नरव्याघ्र दृष्टमेतत्पुरातने ॥ 3-82-9(19293)
सुगन्धां शतकुम्भां च पञ्चयक्षां च भारत।
अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते ॥ 3-82-10(19294)
त्रिशूलखातं तत्रैव तीर्थमासाद्य भारत।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः।
गाणपत्यं च लभते देहं त्यक्त्वा न संशयः ॥ 3-82-11(19295)
ततो गच्छेत राजेन्द्र देव्याः स्थानं सुदुर्लभम्।
शाकम्भरीति विख्याता त्रिषु लोकेषु विश्रुता ॥ 3-82-12(19296)
दिव्यं वर्षसहस्रं हि शाकेन किल सुव्रता।
आहारं सा कृतवती मासिमासि नराधिप ॥ 3-82-13(19297)
ऋषयोऽभ्यागतास्तत्रदेव्या भक्त्या तपोधनाः।
आतिथ्यं च कृतं तेषां शाकेन किल भारत।
ततः शाकम्भरीत्येव नाम तस्याः प्रतिष्ठितम् ॥ 3-82-14(19298)
शाकम्भरीं समासाद्य ब्रह्मचारी समाहितः।
त्रिरात्रमुषितः शाकं भक्षयित्वा नरः शुचिः ॥ 3-82-15(19299)
शाकाहारस्य यत्किंचिद्वर्षैर्द्वादशभिः कृतम्।
तत्फलं तस्य भवति देव्याश्छन्देन भारत ॥ 3-82-16(19300)
ततो गच्छेत्सुवर्णाख्यं त्रिषु लोकेषु विश्रुतम्।
तत्र विष्णुः प्रसादार्थं रुद्रकमाराधयत्पुरा ॥ 3-82-17(19301)
वरांश्च सुबर्हूल्लेभे दैवतेषु सुदुर्लभान्।
उक्तश्च त्रिपुरघ्नेन परितुष्टेन भारत ॥ 3-82-18(19302)
अपिच त्वं प्रियतरो लोके कृष्ण भविष्यसि।
त्वन्मुखं च जगत्सर्वं भविष्ति न संशयः ॥ 3-82-19(19303)
तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम्।
अश्वमेधमवाप्नोति गाणपत्यं च विन्दति ॥ 3-82-20(19304)
धूमावतीं ततो गच्छेत्रिरात्रोपोषितो नरः।
मनसा प्रार्थितान्कार्माल्लभते नात्र संशयः ॥ 3-82-21(19305)
देव्यास्तु दक्षिणार्धेन रथावर्तो नराधिप।
तत्रारोहेत धर्मज्ञ श्रद्दधानो जितेन्द्रियः।
महादेवप्रसादाद्धि गच्छेत परमां गतिम् ॥ 3-82-22(19306)
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ।
धारां नाम महाप्रात्र सर्वपापप्रमोचनीम् ॥ 3-82-23(19307)
तत्र स्नात्वा नरव्याघ्र न शोचति नराधिप।
ततो गच्छेत धर्मज्ञ नमस्कृत् महागिरिम् ॥ 3-82-24(19308)
`अशीतियोजनशतं पुष्करं स्वर्गमुच्यते।
अशीतिं धर्मपृष्ठात्तु प्रवदन्ति मनीषिणः ॥ 3-82-25(19309)
षष्टिं प्रयागाद्राजेन्द्र कुरुक्षेत्रात्तु द्वादश।
संयुक्तमेव राजेन्द्र गङ्गाद्वारं त्रिविष्टपम्' ॥ 3-82-26(19310)
स्वर्गद्वारेण यत्तुल्यं गङ्गाद्वारं न संशयः।
तत्राभिषेकं कुर्वीत कोटितीर्थे समाहितः ॥ 3-82-27(19311)
पौण्डरीकमवाप्नोति कुलं चैव समुद्धरेत्।
उष्यैकां रजनीं तत्र गोसहस्रफलं लभेत् ॥ 3-82-28(19312)
सप्तगङ्गे त्रिगङ्गे च शक्रावर्ते च तर्पयन्।
देवान्पितॄंश्च विधिवत्पुण्ये लोके महीयते ॥ 3-82-29(19313)
ततः कनस्वले स्नात्वा त्रिरात्रोपोषितो नरः।
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥ 3-82-30(19314)
कपिलावटं ततो गच्छेत्तीर्थसेवी नराधिप।
उपोष्य रजनीं तत्र गोसहस्रफलं लभेत् ॥ 3-82-31(19315)
नागराजस्य राजेन्द्र कपिलस्य महात्मनः।
तीर्थं कुरुवरश्रेष्ठ सर्वलोकेषु विश्रुतम् ॥ 3-82-32(19316)
तत्राभिषेकं कुर्वीत नागतीर्थे नराधिप।
कपिलानां सहस्रस्य फलं विन्दति मानवः ॥ 3-82-33(19317)
ततो ललितकं गच्छेच्छन्तनोस्तीर्थमुत्तमम्।
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ॥ 3-82-34(19318)
गङ्गायमुनयोर्मध्ये स्नाति यः संगमे नरः।
दशाश्वमेधानाप्नोति कुलं चैव समुद्धरेत् ॥ 3-82-35(19319)
ततो गच्छेत राजेन्द्र सुगन्धं लोकविथुतम्।
सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते ॥ 3-82-36(19320)
रुद्रावर्तं ततो गच्छेत्तीर्थसेवी नराधिप।
तत्रस्नात्वा नरो राजन्स्वर्गलोके च गच्छति ॥ 3-82-37(19321)
गङ्गायाश्च नरश्रेष्ठ सरस्वत्याश्च संगमे।
स्नात्वाऽश्वमेधं प्राप्नोति स्वर्गलोकं च गच्छति ॥ 3-82-38(19322)
भद्रकर्णएश्वरं गत्वा देवमर्च्य यथाविधि।
न दुर्गतिमवाप्नोति नाकपृष्ठे च पूज्यते ॥ 3-82-39(19323)
तत कुब्जावतीं गच्छेत्तीर्थसेवी नराधिप।
रगोसहस्रमवाप्नोति स्वर्गलोकं च नच्छति ॥ 3-82-40(19324)
अरुन्धतीवटं गच्छेत्तीर्थसेवी नराधिप।
सामुद्रकमुपस्पृश्य ब्रह्मचारी समाहितः ॥ 3-82-41(19325)
अश्वमेधमवाप्नोति त्रिरात्रोपोषितो नरः।
गोसहस्रफलं विद्यात्कुलं चैव समुद्धरेत् ॥ 3-82-42(19326)
कब्र्हमावर्तं ततो गच्छेद्ब्रह्मचारी समाहितः।
अश्वमेधमवाप्नोति सोमलोकं च गच्छति ॥ 3-82-43(19327)
यमुनाप्रभवं गत्वा समुपस्पृश्य यामुनम्।
अश्वमेधफंल लब्ध्वा स्वर्गलोके महीयते ॥ 3-82-44(19328)
दर्वीसंक्रमणं प्राप्य तीर्थं त्रैलोक्यपूजितम्।
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥ 3-82-45(19329)
सिन्धोश्च प्रभवं गत्वा सिद्धगन्धर्वसेवितम्।
तत्रोष्य रजनीः पञ्च विन्देद्बहु सुवर्णकम् ॥ 3-82-46(19330)
अथ वेदीं समासाद्य नरः परमदुर्गमाम्।
अश्वमेधमवाप्नोति गच्छेदौशनसीं गतिम् ॥ 3-82-47(19331)
ऋषिकुल्यां समासाद्य वासिष्ठं चैवभारत।
वासिष्ठीं समतिक्रम्य सर्वे वर्णा द्विजातयः ॥ 3-82-48(19332)
ऋषिकुल्यां समासाद्य नरः स्नात्वा विकल्मषः।
देवान्पितॄंश्चार्चयित्वा ऋषिलोकं प्रपद्यते ॥ 3-82-49(19333)
यदि तत्रवसेन्मासं शाकाहारो नराधिप।
`द्वादशाहस्य यज्ञस्य फलं स लभते नरः' ॥ 3-82-50(19334)
भृगुतुङ्गं समासाद्य वाजिमेधफलं लभेत्।
गत्वा वीरप्रमोक्षं च सर्वपापैः प्रमुच्यते ॥ 3-82-51(19335)
कृत्तिकामघयोश्चैव तीर्थमासाद्य भारत।
अग्निष्टोमातिरात्राभ्यां फलमाप्नोति मानवः ॥ 3-82-52(19336)
तत्र संध्यां समासाद्य विद्यातीर्थमनुत्तमम्।
उपस्पृश्य च वै विद्यां यत्र तत्रोपपद्यते ॥ 3-82-53(19337)
महाश्रमे वसेद्रात्रिं सर्वपापप्रमोचने।
एककालं निराहारो लोकानावसते शुभान् ॥ 3-82-54(19338)
षष्ठाकालोपवासेन मासमुष्य महालये।
सर्वपापविशुद्दात्मा विन्देद्बहु सुवर्णकम्।
दशापरान्दशपूर्वान्नरानुद्धरते कुलम् ॥ 3-82-55(19339)
अथ वेतसिकां गत्वा पितामहनिषेविताम्।
अश्वमेधमवाप्नोति गच्छेदौशनसीं गतिम् ॥ 3-82-56(19340)
अथ सुन्दरिकातीर्थं प्राप्य सिद्धनिषेवितम्।
रूपस्य भागी भवति दृष्टमेतत्पुरातनैः ॥ 3-82-57(19341)
ततो वै ब्राह्मणं गत्वा ब्रह्मचारी जितेन्द्रियः।
पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते ॥ 3-82-58(19342)
ततस्तु नैमिषं गच्छेत्पुण्यं सिद्धनिषेवितम्।
तत्र नित्यं निवसति ब्रह्मा देवगणैः सह ॥ 3-82-59(19343)
नैमिषं मृगयाणस् पापस्यार्धं प्रणश्यति।
प्रविष्टमात्रस्तु नरः सर्वपापैः प्रमुच्यते ॥ 3-82-60(19344)
तत्र मासं वसेद्धीरो नैमिषे तीर्थतत्परः।
पृथिव्यां यानि तीर्थानि तानि तीर्थानि नैंमिषे ॥ 3-82-61(19345)
कृताभिषेकस्तत्रैव नियतो नियताशनः।
गवां मेधस्य यज्ञस्य फलं प्राप्नोति भारत।
पुनात्यासप्तमं चैव कुलं भरतसत्तम ॥ 3-82-62(19346)
यस्त्यजेन्नैमिषे प्राणानुपवासपरायणः।
स मोदेत्सर्वलोकेषु एवमाहुर्मनीषिणः ॥ 3-82-63(19347)
नित्यं मेध्यं च पुण्यं च नैमिषं नृपसत्तम ॥ 3-82-64(19348)
गङ्गोद्भेदं समासाद्य त्रिरात्रोपोषितो नरः।
वाजपेयमवाप्नोति ब्रह्मभूतो भवेत्सदा ॥ 3-82-65(19349)
सरस्वतीं समासाद्य तर्पयेत्पितृदेवताः।
सारस्वतेषु लोकेषु मोदते नात्र संशयः ॥ 3-82-66(19350)
ततश्च बाहुदां गच्छेद्ब्रह्मचारी समाहितः।
तत्रोष्य रजनीमेकां स्वर्गलोके महीयते।
देवसत्रस्य यज्ञस्य फलंप्राप्नोति कौरव ॥ 3-82-67(19351)
ततः क्षीरवतीं गच्छेत्पुण्यां पुण्यतरैर्वृताम्।
पितृदेवार्चनपरो वाजपेयमवाप्नुयात् ॥ 3-82-68(19352)
विमलाशोकमासाद्य ब्र्हमचारी समाहितः।
तत्रोष्य रजनीमेकां स्वर्गलोके महीयते ॥ 3-82-69(19353)
गोप्रतारं ततो गच्छेत्सरय्वास्तीर्थमुत्तमम्।
यत्र रामो गतः स्वर्गं सभृत्यबलवाहनः।
देहं त्यक्त्वा महाराज तस्य तीर्थस्य तेजसा ॥ 3-82-70(19354)
रामस्य च प्रसादेन व्यवसायाच्च भारत।
तस्मिंस्तीर्थे नरः स्नात्वा गोप्रतारे नराधिप।
सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ॥ 3-82-71(19355)
रामतीर्थे नरः स्नात्वा गोमत्यां कुरुनन्दन।
अश्वमेधमवाप्नोति पुनाति च कुलं नरः ॥ 3-82-72(19356)
शतसाहस्रकं तीर्थं तत्रैव भरतर्षभ ॥ 3-82-73(19357)
तत्रोपस्पर्शनं कृत्वा नियतो नियताशनः।
गोसहस्रफलं पुण्यं प्राप्नोति भरतर्षभ ॥ 3-82-74(19358)
रततो गच्छेत राजेनद्र भर्तृस्थानमनुत्तमम्।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ 3-82-75(19359)
कोटितीर्थे नरः स्नात्वा अर्चयित्वा गुहं नृप।
गोसहस्रफंल विद्यात्तेजस्वी च भवेन्नरः ॥ 3-82-76(19360)
ततो वाराणसीं गत्वा अर्चयित्वा नृषध्वजम्।
कपिलाह्रदे नरः स्नात्वाराजसूयमवाप्नुयात् ॥ 3-82-77(19361)
अविमुक्तं समासाद्य तीर्थसेवी कुरूद्वह।
दर्शनाद्देवदेवस्य मुच्यते ब्रह्महत्यया ॥ 3-82-78(19362)
प्राणानुत्सृज्यतत्रैव मोक्षं प्राप्नोति मानवः।
मार्कण्डेयस्य राजेन्द्र तीर्थमासाद्य दुर्लभम् ॥ 3-82-79(19363)
गोमतीगङ्गयोश्चैव संगमे लोकविश्रुते।
अग्निष्टोममवाप्नोति कुलं चैव समुद्धरेत् ॥ 3-82-80(19364)
ततो गयां समासाद्य ब्रह्मचारी समाहितः।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ 3-82-81(19365)
तत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः।
तत्र दत्तं पितृभ्यस्तु भवत्यक्षयमुच्यते ॥ 3-82-82(19366)
महानद्यामुपस्पृश्य तर्पयेत्पितृदेवताः।
अक्षयान्प्राप्नुयाल्लोकान्कुलं चैव समुद्धरेत् ॥ 3-82-83(19367)
ततो ब्रह्मसरो गत्वा धर्मारण्योपशोभितम्।
ब्रह्मलोकमवाप्नोति प्रभातामेव शर्वरीम् ॥ 3-82-84(19368)
ब्रह्मणा तत्र सरसि यूपश्रेष्ठः समुच्छ्रितः।
यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत् ॥ 3-82-85(19369)
ततो गच्छेत राजेन्द्र धेनुकं लोकविश्रुतम्।
एकरात्रोषितो राजन्प्रयच्छेत्तिलधेनुकाम् ॥ 3-82-86(19370)
सर्वपापविशुद्धात्मा सोमलोकं ब्रजेद्भुवम्।
तत्र चिह्निं महद्राजन्नद्यापि सुमहद्भृशम् ॥ 3-82-87(19371)
कपिलायाः सवत्सायाश्चरन्त्याः पर्वते कृतम्।
सवत्सायाः पदानि स्म दृश्यन्तेऽद्यापि भारत ॥ 3-82-88(19372)
तेषूपस्पृश्य राजेन्द्रपदेषु नृपसत्तम।
यत्कंचिदशुभं कर्म तत्प्रणश्यति भारत ॥ 3-82-89(19373)
ततो गृध्रवटं गच्छेत्स्थानं देवस्य धीमतः।
स्नायीत भस्मना तत्र अभिगम्य वृषध्वजम् ॥ 3-82-90(19374)
ब्राह्मणेन भवेच्चीर्णं व्रतं द्वादशवार्षिकम्।
इतरेषां तु वर्णानां सर्वपापं प्रणश्यति ॥ 3-82-91(19375)
उद्यन्तं च ततो गच्छेत्पर्वतं गीतनादितम्।
सावित्र्यास्तु पदं तत्र दृश्यते भरतर्षभ ॥ 3-82-92(19376)
तत्रसंध्यामुपासीत ब्राह्मणः संशितव्रतः।
उपासिता भवेत्संध्या तेन द्वादशवार्षिकी ॥ 3-82-93(19377)
योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ।
तत्राभिगम्य मुच्येत पुरुषो योनिसंकरात् ॥ 3-82-94(19378)
कृष्णशुक्लावुभौ पक्षौ गयायां यो वसेन्नरः।
पुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः ॥ 3-82-95(19379)
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत्।
गौरीं वा वरयेत्कन्यां नीलं वा वृषमुत्सृजेत् ॥ 3-82-96(19380)
ततः फल्गुं व्रजेद्राजंस्तीर्थसेवी नराधिप।
अश्वमेधमवाप्नोति सिद्धिं च महतीं व्रजेत् ॥ 3-82-97(19381)
ततो गच्छेत राजेन्द्र धर्मप्रस्थं समाहितः।
तत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर ॥ 3-82-98(19382)
तत्र कूपोदकं कृत्वा तेन स्नातः शुचिस्तथा।
पितॄन्देवांस्तु संतर्प्य मुक्तपापो दिवं व्रजेत् ॥ 3-82-99(19383)
मतङ्गस्याश्रमस्तत्रमहर्षेर्भावितात्मनः ॥ 3-82-100(19384)
तं प्रविश्याश्रमं श्रीमच्छ्रमशोकविनाशनम्।
गवामयनयज्ञस्य फलंप्राप्नोति मानवः ॥ 3-82-101(19385)
धर्मं तत्राभिसंस्पृश्य वाजिमेधमवाप्नुयात् ॥ 3-82-102(19386)
ततो गच्छेत राजेन्द्र ब्रह्मस्थानमनुत्तमम्।
तत्राभिगम्य राजेन्द्र ब्रह्माणं पुरुषर्षभ।
राजसूयाश्वमेधाभ्यां फलं विन्दति मानवः ॥ 3-82-103(19387)
ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप।
उपस्पृश्य ततस्तत्रकक्षीवानिव मोदते ॥ 3-82-104(19388)
यक्षिण्या नैत्यकं तत्र प्राश्नीन पुरुषः शुचिः।
यक्षिण्यास्तु प्रसादेन मुच्यते ब्र्हमहत्यया ॥ 3-82-105(19389)
मणइनागं ततो गत्वा गोसहस्रफलं लभेत् ॥ 3-82-106(19390)
तैर्थिकं भुञ्जते यस्तु मणिनागस् भारत।
दष्टस्याशीविषेणापि न तस्य क्रमते विपम् ॥ 3-82-107(19391)
तत्रोष् रजनीभेकां गोसहस्रफंल लभेत्।
ततो गच्छेत ब्रह्मर्पेर्गौतमस्य वनं प्रियम् ॥ 3-82-108(19392)
अहल्याया ह्रदे स्नात्वा व्रजेत परमां गतिम्।
अभिगम्याश्रमं राजन्विनद्ते श्रियमात्मनः ॥ 3-82-109(19393)
तत्रोदपानं धर्मज्ञ त्रिपु लोकेषु विश्रुतम्।
तत्राभिषेकं कृत्वा तु वाजिमेधमवाप्नुयात् ॥ 3-82-110(19394)
जनकस् तु राजर्षेः कूपस्त्रिदशपूजितः।
तत्राभिषेकं कृत्वा तु विष्णुलोकमवाप्नुयात् ॥ 3-82-111(19395)
ततो विनशनं गच्छेत्सर्वपापप्रमोचनम्।
वाजपेयमवाप्नोति सोमलोकं च गच्छति ॥ 3-82-112(19396)
गण्डकीं तु समासाद्य सर्वतीर्थजलोद्भवाम्।
वाजपेयमवाप्नोति सूर्यलोकं च गच्छति ॥ 3-82-113(19397)
कततो विशल्यामासाद्य नदीं त्रैलोक्यविश्रुताम्।
अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति ॥ 3-82-114(19398)
ततोऽधिवङ्गं धर्मज्ञ समाविश्य ततो वनम्।
गुह्यकेषु महाराज मोदते नात्र संशयः ॥ 3-82-115(19399)
कम्पनां तु समासद्य नदीं सिद्धनिवेषिताम्।
पुण्डरीकमवाप्नोति स्वर्गलोकं च गच्छति ॥ 3-82-116(19400)
अथ माहेश्वरीं धारां समासाद्य धराधिप।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ 3-82-117(19401)
दिवौकसां पुष्करिणीं समासाद्य नराधिप।
न दुर्गतिमवाप्नोति वाजिमेधं च विन्दति ॥ 3-82-118(19402)
अथ सोमपदं गच्छेद्ब्रह्मचारी समाहितः।
माहेश्वरपदे स्नात्वा वाजिमेधफलं लभेत् ॥ 3-82-119(19403)
तत्रकोटी तु तीर्थानां विश्रुता भरतर्षभ।
कूर्मरूपेण राजेन्द्र ह्यसुरेण दुरात्मना ॥ 3-82-120(19404)
ह्रियमाणा हृता राजन्विष्णुना प्रभविष्णुना।
तत्राभिषेकं कुर्वीत तीर्थकोट्यां युधिष्ठिर ॥ 3-82-121(19405)
पुण्डरीकमवाप्नोति विष्णुलोकं च गच्छति।
ततो गच्छेत राजेन्द्रस्थानं नारायणस्य च ॥ 3-82-122(19406)
सदा सन्निहितो यत्रविष्णुर्वसति भारत।
यत्रब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥ 3-82-123(19407)
आदित्या वसवो रुद्रा जनार्दनमुपासते।
शालग्राम इति ख्यातो विष्णुरद्भुतकर्मकः ॥ 3-82-124(19408)
अभिगम्य त्रिलोकेशं वरदं विष्णुमव्ययम्।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ 3-82-125(19409)
तत्रोपदानं धर्मज्ञ सर्वपापप्रमोचनम्।
समुद्रास्तत्रचत्वारः कूपे संनिहिताः सदा।
तत्रोपस्पृश् राजेन्द्र न दुर्गतिमवाप्नुयात् ॥ 3-82-126(19410)
अभिगम्य त्रिलोकेशं वरदं विष्णुमव्ययम्।
विराजति यथासोमो मेघैर्मुक्तो नराधिप ॥ 3-82-127(19411)
जातिस्मरमुपस्पृश्य शुचिः प्रयतमानसः।
जातिस्मरत्वमाप्नोति स्नात्वा तत्र न संशयः ॥ 3-82-128(19412)
वदेश्वरपुरं गत्वा अर्चयित्वा तु केशवम्।
ईप्सिताँल्लभते कामानुपवासान्न संशयः ॥ 3-82-129(19413)
ततस्तु वामनं गत्वा सर्वपापप्रमोचनम्।
अभिगम्य हरिं देवं न दुर्गतिमवाप्नुयात् ॥ 3-82-130(19414)
भरतस्याश्रमं गच्छेत्सर्वपापप्रमोचनम् ॥ 3-82-131(19415)
कौशिकीं तत्र गच्छेत महापापप्रणाशिनीम्।
राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ 3-82-132(19416)
ततो गच्छेत राजेन्द्र चम्पकारण्यमुत्तमम्।
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥ 3-82-133(19417)
अथ जेष्ठिलमासाद्य तीर्धं परमदुर्लभम्।
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥ 3-82-134(19418)
तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम्।
मित्रावरुणयोर्लोकानाप्नोति पुरुषर्षभ।
त्रिरात्रोपोषितस्तत्रअग्निष्टोमफलं लभेत् ॥ 3-82-135(19419)
कन्यासंवेद्यमासाद्य नियतो नयिताशनः।
मनोः प्रजापतेर्लोकानाप्नोति पुरुषर्षभ ॥ 3-82-136(19420)
कन्यायां ये प्रयच्छन्ति दानमण्वपि भारत।
तदक्षय्यमिति प्राहुर्ऋषयः संशितव्रताः ॥ 3-82-137(19421)
ततो निर्वीरमासाद्य त्रिपु लोकेपु विश्रुतम्।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ 3-82-138(19422)
ये त्विन्धनं प्रयच्छन्ति निर्वीरासंगमे नराः।
ते यान्ति नरशार्दूल शक्रलोकमनामयम् ॥ 3-82-139(19423)
तत्राश्रमो वसिष्ठस् त्रिषु लोकेषु विश्रुतः।
तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयात् ॥ 3-82-140(19424)
देवकूटं समासाद्य ब्रह्मर्षिगणसेवितम्।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ 3-82-141(19425)
ततो गच्छेत राजेन्द्र कौशिकस्य मुनेर्ह्रदम्।
यत्र सिद्धिं परां प्राप्तो विश्वामित्रोथ कौशिकः ॥ 3-82-142(19426)
तत्र मासं वसेद्वीर कौशिक्यां भरतर्षभ।
अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति ॥ 3-82-143(19427)
सर्वतीर्थवरे चैव यो वसेत महाह्रदे।
न दुर्गतिमवाप्नोति विन्द्याद्बहु सुवर्णकम् ॥ 3-82-144(19428)
कुमारमभिगम्याथ वीराश्रमनिवासिनम्।
अश्वमेधमवाप्नोति नरो नास्त्यत्र संशयः ॥ 3-82-145(19429)
अग्निधारां समासाद्य त्रिषु लोकेषु विश्रुताम्।
तत्राभिषेकं कुर्वाणो ह्यग्निष्टोममवाप्नुयात् ॥ 3-82-146(19430)
अभिगम्य महादेवं वरदं विष्णुमव्ययम्।
पितामहसरो गत्वा शैलराजसमीपतः।
तत्राभिषेकं कुर्वाणो ह्यग्निष्टोममवाप्नुयात् ॥ 3-82-147(19431)
पितामहस्य सरसः प्रस्रुता लोकपावनी।
कुमारधारा तत्रैव त्रिषु लोकेषु विश्रुता ॥ 3-82-148(19432)
यत्रस्नात्वा कृतार्थोस्मीत्यात्मानमवगच्छति।
षष्ठकालोपवासेन मुच्यते ब्रह्महत्यया ॥ 3-82-149(19433)
ततो गच्छेत धर्मज्ञ तीर्थसेवनतत्परः।
शिखरं वै महादेव्या गौर्यास्त्रैलोक्यविश्रुतम् ॥ 3-82-150(19434)
समारुह्य नरश्रेष्ठ स्तनकुण्डेषु संविशेत्।
स्तनकुण्डमुपस्पृश्य वाजपेयफलं लभेत् ॥ 3-82-151(19435)
तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः।
हयमेधमवाप्नोति शक्रलोकं च गच्छति ॥ 3-82-152(19436)
ताम्रारुणं समासाद्य ब्रह्मचारी समाहितः।
अश्वमेमवाप्नोति ब्रह्मलोकं च गच्छति ॥ 3-82-153(19437)
नन्दिन्यां च समासाद्य कूपं देवनिषेवितम्।
नरमेधस् यत्पुण्यं तदाप्तोति नराधिप ॥ 3-82-154(19438)
कालिकासंगमे स्नात्वा कौशिक्यरुणयोर्गतः।
त्रिरात्रोपोषितो राजन्सर्वपापैः प्रमुच्यते ॥ 3-82-155(19439)
उर्वशीतीर्थमासाद्य ततः सोमाश्रमं बुधः।
कुम्भकर्णाश्रमं गत्वा पूज्यते भुविमानवः ॥ 3-82-156(19440)
कोकामुखमुपस्पृश् ब्रह्मचारी यतव्रतः।
जातिस्मरत्वमाप्नोति दृष्टमेतत्पुरातनैः ॥ 3-82-157(19441)
प्राङ्गदीं च समासाद्य कृतात्मा भवति द्विजः।
सर्वपापविशुद्धात्मा शक्रलोकं च गच्छति ॥ 3-82-158(19442)
ऋषभद्वीपमासाद्य मेध्यं क्रौञ्चनिषूदनम्।
सरस्वत्यामुपस्पृश्य विमानस्थो विराजते ॥ 3-82-159(19443)
औद्दालकं महाराज तीर्थं मुनिनिषेवितम्।
तत्राभिषेकं कृत्वा वै सर्वपापैः प्रमुच्यते ॥ 3-82-160(19444)
धर्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम्।
वाजपेयमवाप्नोति विमानस्थश्च पूज्यते ॥ 3-82-161(19445)
अथ पम्पां समासाद्य भागीरथ्यां कृतोदकः।
दण्डार्तमभिगत्वा तु गोसहस्रफलं लभेत् ॥ 3-82-162(19446)
`ततो लेवलिकां गच्छेत्पुण्यां पुण्योपसेविताम्।
वाजपेयमवाप्नोति विमानस्थश्च पूज्यते' ॥ 3-82-163(19447)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्व्यशीतितमोऽध्यायः ॥ 82 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-82-8 शम्या मुद्गराकृतिर्यज्ञोपकरणविशेषः स वलवताक्षिप्तो यावद्दूरं पतेत् तावान्देशः शम्यानिपातः तेषु षट्सु ॥ 3-82-9 पुरातने भविष्यपुराणादौ ॥ 3-82-16 छन्देन इच्छया ॥ 3-82-19 त्वमुखं त्वत्प्रधानम् ॥ 3-82-56 औशनसीं गतिं शुक्रत्वम् ॥ 3-82-71 व्यवसायान्निश्चयात् ॥ 3-82-105 नैत्यक नैवेद्यम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|